Posts

Showing posts from May, 2026

Ganga Lahari

 https://youtu.be/sZe74VjC6vU?si=qjdyUCH-igxrGxJ0 Dr. Vijaya Godbole has Sung  Gaga Lahari stotra. . It is a masterpiece and gives divine experience. please do listen                     गंगालहरी समृद्धं सौभाग्यं सकलवसुधायाः किमपि तन् महैश्वर्यं लीलाजनितजगतः खण्डपरशोः । श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां सुधासोदर्यं ते सलिलमशिवं नः शमयतु ॥ १॥ दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां द्रुतं दूरीकुर्वन् सकृदपि गतो दृष्टिसरणिम् । अपि द्रागाविद्याद्रुमदलनदीक्षागुरुरिह प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः ॥ २॥ उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी- कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः । भवन्तु त्वङ्गन्तो हरशिरसि गङ्गातनुभुव- स्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम् ॥ ३॥ तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः । इदानीमौदास्यं भजसि यदि भागीरथि तदा निराधारो हा रोदिमि कथय केषामिह पुरः ॥ ४॥ स्मृतिं याता पुंसामकृतसुकृतानामपि च या हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः । इयं सा ते मूर्तिः सकलस...